Wednesday, 20 May 2026

#श्री #ललिता #पञ्चकम् #स्तोत्रम्

|| श्रीललिता पञ्चकम् स्तोत्रम् ||

प्रातः स्मरामि ललितावदनारविन्दं 
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं 
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं 
रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां 
पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥

प्रातर्नमामि ललिताचरणारविन्दं 
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं 
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥

प्रातः स्तुवे परशिवां ललितां भवानीं 
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां 
विश्वेश्वरीं निगमवाङ्-मनसातिदूराम् ॥ ४॥

प्रातर्वदामि ललिते तव पुण्यनाम 
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति 
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः 
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना 
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥

 इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

No comments:

Post a Comment

#श्री #ललिता #पञ्चकम् #स्तोत्रम्

|| श्रीललिता पञ्चकम् स्तोत्रम् || प्रातः स्मरामि ललितावदनारविन्दं  बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं  मन्दस्मि...