॥ श्रीभुवनेश्वरी सहस्त्रनामस्तोत्रं ॥
विनियोगः -अस्य श्रीभुवनेश्वर्या सहस्रनाम स्तोत्रस्य दक्षिणामूर्तिऋषिः पङ्क्तिश्छन्दः आद्या श्रीभुवनेश्वरी देवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, मम श्रीधर्मार्थकाममोक्षार्थे जपे विनियोगः।
ऋष्यादिन्यासः -
श्रीदक्षिणामूर्तिऋषये नमः शिरसि ।
पङ्क्तिश्छन्दसे नमः मुखे ।
आद्या श्रीभुवनेश्वरीदेवतायै नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
श्रीं शक्तये नमः नाभौ ।
क्लीं कीलकाय नमः पादयोः ।
धर्मार्थकाममोक्षार्थे विनियोगाय नमः सर्वाङ्गे ।
अथ सहस्रनामस्तोत्रम्
आद्या माया परा शक्तिः श्रीं ह्रीं क्लीं भुवनेश्वरी ।
आद्या कमलावाणी भुवनेश्वरी भवमोचनी।
भुवना भावना भव्या भवानी भवभाविनी॥१॥
रुद्राणी रुद्रभक्ता च तथा रुद्रप्रिया सती।
उमा कात्यायनी दुर्गा मङ्गला सर्वमङ्गला॥२।।
उमा कामेश्वरीत्रिपुरा परमेशानी त्रिपुरासुन्दरी प्रिया।
रमणा रमणी रामा रामकार्यकरी शुभा ॥ ३।।
ब्राह्मी नारायणी चण्डी चामुण्डा मुण्डनायिका।
माहेश्वरी च कौमारी वाराही चापराजिता॥४॥
महामाया मुक्तकेशी महात्रिपुरसुन्दरी ।
सुन्दरी शोभना रक्ता रक्तवस्त्रापिधायिनी॥ ५॥
रक्ताक्षी रक्तवस्त्रा च रक्तबीजातिसुन्दरी।
रक्तचन्दनसिक्ताङ्गी रक्तपुष्पसदाप्रिया॥ ६॥
कमला कामिनी कान्ता कामदेवसदाप्रिया।
लक्ष्मी लोला चञ्चलाक्षी चञ्चला चपला प्रिया॥७॥
भैरवी भयहर्त्री च महाभयविनाशिनी ।
भयङ्करी महाभीमा भयहा भयनाशिनी॥ ८॥
श्मशाने प्रान्तरे दुर्गे संस्मृता भयनाशिनी।
जया च विजया चैव जयपूर्णा जयप्रदा॥ ९॥
यमुना यामुना याम्या यामुनजा यमप्रिया।
सर्वेषां जनिका जन्या जनहा जनवर्धिनी॥ १०॥
काली कपालिनी कुल्ला कालिका कालरात्रिका।
महाकालहृदिस्था च कालभैरवरूपिणी॥ ११॥
कपालखट्वाङ्गधरा पाशाङ्कुशविधारिणी।
अभया च भया चैव तथा च भयनाशिनी॥१२॥
महाभयप्रदात्री च तथा च वरहस्तिनी।
गौरी गौराङ्गिनी गौरा गौरवर्णा जयप्रदा॥१३॥
उग्रा उग्रप्रभा शान्तिः शान्तिदाऽशान्तिनाशिनी।
उग्रतारा तथा चोग्रा नीला चैकजटा तथा॥१४॥
हां हां हूं हूं तथा तारा तथा च सिद्धिकालिका।
तारा नीला च वागीशी तथा नीलसरस्वती ॥ १५।।
गङ्गा काशी सती सत्या सर्वतीर्थमयी तथा।
तीर्थरूपा तीर्थपुण्या तीर्थदा तीर्थसेविका॥१६॥
पुण्यदा पुण्यरूपा च पुण्यकीर्तिप्रकाशिनी।
पुण्यकाला पुण्यसंस्था तथा पुण्यजनप्रिया॥१७॥
तुलसी तोतुलास्तोत्रा राधिका राधनप्रिया।
सत्या सत्यभामा रुक्मिणी कृष्णवल्लभा॥१८॥
देवकी कृष्णमाता च सुभद्रा भद्ररूपिणी।
मनोहरा तथा सौम्या श्यामाङ्गी समदर्शना॥१९॥
घोररूपा घोरतेजा घोरवत्प्रियदर्शना।
कुमारी बालिका क्षुद्रा कुमारीरूपधारिणी॥२०॥
युवती युवतीरूपा युवतीरसरञ्जका।
पीनस्तनी क्षूद्रमध्या प्रौढा मध्या जरातुरा॥२१॥
अतिवृद्धा स्थाणुरूपा चलाङ्गी चञ्चला चला।
देवमाता देवरूपा देवकार्यकरी शुभा॥२२॥
देवमाता दितिर्दक्षा सर्वमाता सनातनी।
पानप्रिया पायनी च पालना पालनप्रिया॥२३॥
मत्स्याशी मांसभक्ष्या च सुधाशी जनवल्लभा।
तपस्विनी तपी तप्या तपःसिद्धिप्रदायिनी॥२४॥
हविष्या च हविर्भोक्त्री हव्यकव्यनिवासिनी।
यजुर्वेदा वश्यकरी यज्ञाङ्गी यज्ञवल्लभा॥२५॥
दक्षा दाक्षायिणी दुर्गा दक्षयज्ञविनाशिनी।
पार्वती पर्वतप्रीता तथा पर्वतवासिनी॥२६॥
हैमी हर्म्या हेमरूपा मेना मान्या मनोरमा।
कैलासवासिनी मुक्ता शर्वक्रीडाविलासिनी॥२७॥
चार्वङ्गी चारुरूपा च सुवक्त्रा च शुभानना।
चलत्कुण्डलगण्डश्रीर्लसत्कुण्डलधारिणी॥२८॥
महासिंहासनस्था च हेमभूषणभूषिता।
हेमाङ्गदा हेमभूषा च सूर्यकोटिसमप्रभा॥२९॥
बालादित्यसमाकान्तिः सिन्दूरार्चितविग्रहा।
यवा यावकरूपा च रक्तचन्दनरूपधृक्॥३०॥
कोटरी कोटराक्षी च निर्लज्जा च दिगम्बरा।
पूतना बालमाता च शून्यालयनिवासिनी॥३१॥
श्मशानवासिनी शून्या हृद्या चतुरवासिनी।
मधुकैटभहन्त्री च महिषासुरघातिनी॥३२॥
निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी।
शिवाख्या शिवरूपा च शिवदूती शिवप्रिया॥३३॥
शिवदा शिववक्षःस्था शर्वाणी शिवकारिणी।
इन्द्राणी चेन्द्रकन्या च राजकन्या सुरप्रिया॥३४॥
लज्जाशीला साधुशीला कुलस्त्री कुलभूषिका।
महाकुलीना निष्कामा निर्लज्जा कुलभूषणा॥३५॥
कुलीना कुलकन्या च तथा च कुलभूषिता।
अनन्तानन्तरूपा च अनन्तासुरनाशिनी॥३६॥
हसन्ती शिवसङ्गेन वाञ्छितानन्ददायिनी ।
नागाङ्गी नागभूषा च नागहारविधारिणी ॥ ३७।।
धरिणी धारिणी धन्या महासिद्धिप्रदायिनी ।
डाकिनी शाकिनी चैव राकिनी हाकिनी तथा ॥ ३८।।
भूता प्रेता पिशाची च यक्षिणी धनदार्चिता ।
धृतिः कीर्तिः स्मृतिर्मेधा तुष्टिःपुष्टिरुमा रुषा ॥ ३९।।
शाङ्करी शाम्भवी मीना रतिः प्रीतिः स्मरातुरा ।
अनङ्गमदना देवी अनङ्गमदनातुरा ॥ ४०।।
भुवनेशी महामाया तथा भुवनपालिनी ।
ईश्वरी चेश्वरीप्रीता चन्द्रशेखरभूषणा ॥ ४१।।
चित्तानन्दकरी देवी चित्तसंस्था जनस्य च ।
अरूपा बहुरूपा च सर्वरूपा चिदात्मिका ॥ ४२।।
अनन्तरूपिणी नित्या तथानन्तप्रदायिनी ।
नन्दा चानन्दरूपा च तथाऽनन्दप्रकाशिनी ॥ ४३।।
सदानन्दा सदानित्या साधकानन्ददायिनी ।
वनिता तरुणी भव्या भविका च विभाविनी ॥ ४४।।
चन्द्रसूर्यसमा दीप्ता सूर्यवत्परिपालिनी ।
नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ॥ ४५।।
वैष्णवी विष्णुभक्ता च शालग्रामनिवासिनी ।
चतुर्भुजा चाष्टभुजा सहस्रभुजसंज्ञिता ॥ ४६।।
आद्या कात्यायनी नित्या सर्वाद्या सर्वदायिनी ।
सर्वचन्द्रमयी देवी सर्ववेदमयी शुभा ॥ ४७।।
सवदेवमयी देवी सर्वलोकमयी पुरा ।
सर्वसम्मोहिनी देवी सर्वलोकवशङ्करी ॥ ४८।।
राजिनी रञ्जिनी रागा देहलावण्यरञ्जिता ।
नटी नटप्रिया धूर्ता तथा धूर्तजनार्दिनी ॥ ४९।।
महामाया महामोहा महासत्त्वविमोहिता ।
बलिप्रिया मांसरुचिर्मधुमांसप्रिया सदा ॥ ५०।।
मधुमत्ता माधविका मधुमाधवरूपिका ।
दिवामयी रात्रिमयी सन्ध्या सन्धिस्वरूपिणी ॥ ५१।।
कालरूपा सूक्ष्मरूपा सूक्ष्मिणी चातिसूक्ष्मिणी ।
तिथिरूपा वाररूपा तथा नक्षत्ररूपिणी ॥ ५२।।
सर्वभूतमयी देवी पञ्चभूतनिवासिनी ।
शून्याकारा शून्यरूपा शून्यसंस्था च स्तम्भिनी ॥ ५३।।
आकाशगामिनी देवी ज्योतिश्चक्रनिवासिनी ।
ग्रहाणां स्थितिरूपा च रुद्राणी चक्रसम्भवा ॥ ५४।।
ऋषीणां ब्रह्मपुत्राणां तपःसिद्धिप्रदायिनी ।
अरुन्धती च गायत्री सावित्री सत्त्वरूपिणी ॥ ५५।।
चितासंस्था चितारूपा चित्तसिद्धिप्रदायिनी ।
शवस्था शवरूपा च शवशत्रुनिवासिनी ॥ ५६।।
योगिनी योगरूपा च योगिनां मलहारिणी ।
सुप्रसन्ना महादेवी यामुनी मुक्तिदायिनी ॥ ५७।।
निर्मला विमला शुद्धा शुद्धसत्वा जयप्रदा ।
महाविद्या महामाया मोहिनी विश्वमोहिनी ॥ ५८।।
कार्यसिद्धिकरी देवी सर्वकार्यनिवासिनी ।
कार्यकार्यकरी रौद्री महाप्रलयकारिणी ॥ ५९।।
स्त्रीपुंभेदाह्यभेद्या च भेदिनी भेदनाशिनी ।
सर्वरूपा सर्वमयी अद्वैतानन्दरूपिणी ॥ ६०।।
प्रचण्डा चण्डिका चण्डा चण्डासुरविनाशिनी ।
सुमस्ता बहुमस्ता च छिन्नमस्ताऽसुनाशिनी ॥ ६१।।
अरूपा च विरूपा च चित्ररूपा चिदात्मिका ।
बहुशस्त्रा अशस्त्रा च सर्वशस्त्रप्रहारिणी ॥ ६२।।
शास्त्रार्था शास्त्रवादा च नाना शास्त्रार्थवादिनी ।
काव्यशास्त्रप्रमोदा च काव्यालङ्कारवासिनी ॥ ६३।।
रसज्ञा रसना जिह्वा रसामोदा रसप्रिया ।
नानाकौतुकसंयुक्ता नानारसविलासिनी ॥ ६४।।
अरूपा च स्वरूपा च विरूपा च सुरूपिणी ।
रूपावस्या तथा जीवा वेश्याद्या वेशधारिणी ॥ ६५।।
नानावेशधरा देवी नानावेशेषु संस्थिता ।
कुरूपा कुटिला कृष्णा कृष्णारूपा च कालिका ॥ ६६।।
लक्ष्मीप्रदा महालक्ष्मीः सर्वलक्षणसंयुता ।
कुबेरगृहसंस्था च धनरूपा धनप्रदा ॥ ६७।।
नानारत्नप्रदा देवी रत्नखण्डेषु संस्थिता ।
वर्णसंस्था वर्णरूपा सर्ववर्णमयी सदा ॥ ६८।।
ओङ्काररूपिणी वाच्या आदित्यज्योतीरूपिणी ।
संसारमोचिनी देवी सङ्ग्रामे जयदायिनी ॥ ६९।।
जयरूपा जयाख्या च जयिनी जयदायिनी ।
मानिनी मानरूपा च मानभङ्गप्रणाशिनी ॥ ७०।।
मान्या मानप्रिया मेधा मानिनी मानदायिनी ।
साधकासाधकासाध्या साधिका साधनप्रिया ॥ ७१।।
स्थावरा जङ्गमा प्रोक्ता चपला चपलप्रिया ।
ऋद्धिदा ऋद्धिरूपा च सिद्धिदा सिद्धिदायिनी ॥ ७२।।
क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी ।
रञ्जिता रञ्जिनी या च सर्ववाञ्छाप्रदायिनी ॥ ७३।।
भगलिङ्गप्रमोदा च भगलिङ्गनिवासिनी ।
भगरूपा भगाभाग्या लिङ्गरूपा च लिङ्गिनी ॥ ७४।।
भगगीतिर्महाप्रीतिर्लिङ्गगीतिर्महासुखा ।
स्वयम्भूः कुसुमाराध्या स्वयम्भूः कुसुमाकुला ॥ ७५।।
स्वयम्भूः पुष्परूपा च स्वयम्भूः कुसुमप्रिया ।
शुक्रकूपा महाकूपा शुक्रासवनिवासिनी ॥ ७६।।
शुक्रस्था शुक्रिणी शुक्रा शुक्रपूजकपूजिता ।
कामाक्षा कामरूपा च योगिनी पीठवासिनी ॥ ७७।।
सर्वपीठमयी देवी पीठपूजानिवासिनी ।
अक्षमालाधरा देवी पानपात्रविधारिणी ॥ ७८।।
शूलिनी शूलहस्ता च पाशिनी पाशरूपिणी ।
खड्गिनी गदिनी चैव तथा सर्वास्त्रधारिणी ॥ ७९।।
भाव्या भव्या भवानी सा भवमुक्तिप्रदायिनी ।
चतुरा चतुरप्रीता चतुराननपूजिता ॥ ८०।।
देवस्तव्या देवपूज्या सर्वपूज्या सुरेश्वरी ।
जननी जनरूपा च जनानां चित्तहारिणी ॥ ८१।।
जटिला केशबद्धा च सुकेशी केशबद्धिका ।
अहिंसा द्वेषिका द्वेष्या सर्वद्वेषविनाशिनी ॥ ८२।।
उच्चाटिनी द्वेषिनी च मोहिनी मधुराक्षरा ।
क्रीडा क्रीडकलेखाङ्ककारणाकारकारिका ॥ ८३।।
सर्वज्ञा सर्वकार्या च सर्वभक्षा सुरारिहा ।
सर्वरूपा सर्वशान्ता सर्वेषां प्राणरूपिणी ॥ ८४।।
फलश्रुति
इति श्रीभुवनेश्वर्या नामानि कथितानि ते ।
सहस्राणि महादेवि फलं तेषां निगद्यते ॥ ,८५।।
यः पठेत् प्रातरुत्थाय चार्द्धरात्रे तथा प्रिये ।
प्रातःकाले तथा मध्ये सायाह्ने हरवल्लभे ॥ ८६।।
यत्र तत्र पठित्वा च भक्त्या सिद्धिर्न संशयः ।
पठेद् वा पाठयेद् वापि शृणुयाच्छ्रावयेत्तथा ॥ ८७।।
तस्य सर्वं भवेत् सत्यं मनसा यच्च वाञ्छितम् ।
अष्टम्यां च चतुर्दश्यां नवम्यां वा विशेषतः ॥ ८८।।
सर्वमङ्गलसंयुक्ते सङ्क्रातौ शनिभौमयोः ।
यः पठेत् परया भक्त्या देव्या नामसहस्रकम् ॥ ८९।।
तस्य देहे च संस्थानं कुरुते भुवनेश्वरी ।
तस्य कार्यं भवेद् देवि अन्यथा न कथञ्चन ॥ ९०।।
श्मशाने प्रान्तरे वापि शून्यागारे चतुष्पथे ।
चतुष्पथे चैकलिङ्गे मेरुदेशे तथैव च ॥ ९१।।
जलमध्ये वह्निमध्ये सङ्ग्रामे ग्रामशान्तये ।
जपत्वा मन्त्रसहस्रं तु पठेन्नामसहस्रकम् ॥ ९२।।
धूपदीपादिभिश्चैव बलिदानादिकैस्तथा ।
नानाविधैस्तथा देवि नैवेद्यैर्भुवनेश्वरीम् ॥ ९३।।
सम्पूज्य विधिवज्जप्त्वा स्तुत्वा नामसहस्रकैः ।
अचिरात् सिद्धिमाप्नोति साधको नात्र संशयः ॥ ९४।।
तस्य तुष्टा भवेद् देवी सर्वदा भुवनेश्वरी ।
भूर्जपत्रे समालिख्य कुङकुमाद् रक्तचन्दनैः ॥ ९५।।
तथा गोरोचनाद्यैश्च विलिख्य साधकोत्तमः ।
सुतिथौ शुभनक्षत्रे लिखित्वा दक्षिणे भुजे ॥ ९६।।
धारयेत् परया भक्त्या देवीरूपेण पार्वति ! ।
तस्य सिद्धिर्महेशानि अचिराच्च भविष्यति ॥ ९७।।
रणे राजकुले वाऽपि सर्वत्र विजयी भवेत् ।
देवता वशमायाति किं पुनर्मानवादयः ॥ ९८।।
विद्यास्तम्भं जलस्तम्भं करोत्येव न संशयः।
पठेद्वा पाठयेद् वाऽपि देवीभक्त्या च पार्वति॥९९॥
इह भुक्त्वा वरान् भोगान् कृत्वा काव्यार्थविस्तरान्।
अन्तेदेव्या गणत्वं च साधको मुक्तिमाप्नुयात्॥१००॥
प्राप्नोति देवदेवेशि सर्वार्थान्नात्र संशयः।
हीनाङ्गे चातिरिक्ताङ्गे शठाय परशिष्यके॥१०१॥
न दातव्यं महेशानि प्राणान्तेऽपि कदाचन।
शिष्याय मतिशुद्धाय विनीताय महेश्वरि॥१०२॥
दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत्।
लिखित्वा धारयेद् देहे दुःखं तस्य न जायते॥१०३॥
य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि।
इति ते कथितं देवि भुवनेश्याः सहस्रकम्॥१०४॥
यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति।
सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं।
यदि पठति मनुष्यो नान्यचेताः सदैव।
इह हि सकलभोगान् प्राप्य चान्ते शिवाय।
व्रजति परसमीपं सर्वदा मुक्तिमन्ते॥१०५॥
॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरी सहस्रनामाख्यं स्तोत्रं सम्पूर्णम् ॥
🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏
No comments:
Post a Comment