ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः स्रग्धरा-ऽनुष्टुप् छन्दः, सरस्वती देवता ऐं वीजं, वद वद शक्तिः, स्वाहा कीलकं मम वाक् सिद्ध्यर्थं जपे विनियोगः।
न्यासः -
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं तर्जनीभ्यां नमः।
ॐ धीं मध्यमाभ्यां नमः ।
ॐ क्लीं अनामिकाभ्यां नमः।
ॐ सौं कनिष्ठिकाभ्यां नमः।
ॐश्रीं करतलकरपृष्ठाभ्यां नमः।
हृदयादिन्यासः -
ॐ ह्रीं हृदयाय नमः ।
ॐ ऐं शिरसे स्वाहा ।
ॐ धीं शिखायै वषट् ।
ॐ क्लीं नेत्रत्रयाय वौषट् ।
ॐ सौं कवचाय हुम् ।
ॐ श्रीं अस्त्राय फट् ।
ध्यानं :-
शुक्लां ब्रह्मविचार-सार-परमामाद्यां जगद्व्यापिनीं
वीणापुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिक-मालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्॥१॥
दोर्भिर्युक्तैश्चतुर्भिः स्फटिकमणिमयीमक्ष मालां दधानां
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
पाशं वीणां मुकुन्द-स्फटिकमणिनिभां भासमाना समाना
सा मे वादे च तथ्यं निवसतु वदने सर्वदा सुप्रसन्ना॥२॥
या कुन्देन्दु-तुषार-हार-धवला या शुभ्रवस्त्रावृता
या वीणा-वरदण्ड-मण्डितकरा या श्वेतपद्मासना।
या ब्रह्माऽच्युत-शङ्कर-प्रभृतिभि-र्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥३॥
मन्त्रं:- ॐ ऐं धीं क्लीं सौं श्रीं सरस्वत्यै नमः ॥ 108 बार करें।
ह्रीं ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्ट शोभे
भव्ये व्यानुकूले शुभमतिवरदे विश्ववन्द्याङ्घ्रि पद्मे।
पद्मे पद्मोपविष्टे प्रणत जनमनोमोद सम्पादयित्रि
प्रोत्फुल्लज्ञानकूले हरिहरनमिते देवि! संसारसारे॥१॥
ऐं ऐं ऐं जाप्यतुष्टे हिमरुचि-मुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम्।
विद्ये वेदान्तवेद्ये श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्रहारे॥२॥
धीं धीं धीं धारणाख्ये धृतिमतिनुतिभिर्नामभिः कीर्तनीये
नित्ये नित्ये निमित्ते मुनिजननमिते नूतने वै पुराणे।
पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्त्व स्वरूपे
मातर्मात्रार्थतत्त्वे! मतिमतिमतिदे!माधव प्रीतिनादे॥३॥
क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकं व्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भनीये।
मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वान्त विध्वंस मीड्ये
गी-गौं-र्वाग्भारतीत्वं कविधृतरसने सिद्धिदे सिद्धिसाध्ये॥४॥
सौं सौं सौं शक्तिबीजे कमल भवमुखाम्भोज मूर्तिस्वरूपे
रूपे रूपप्रकाशे सकलगुणमये निर्गुणं निर्विकल्पे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्य विज्ञान तुष्टे
विश्वे विश्वान्तराले सकलगुणमये निष्कले नित्यशुद्धे॥५॥
श्रीं श्रीं श्रीं स्तौमि त्वाऽहं मम खलु रसनां मा कदाचित् त्यज त्वं
मामे बुद्धिर्विरुद्धा भवतु मममनोपातु मां देवि!पापात्।
मा मे दुःखं कदाचित् क्वचिदपि विषये पुस्तके नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदाऽपि॥६॥
इत्येतैः श्लोकमुख्येः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्य तत्त्वार्थवेत्ता।
स स्यादिष्टार्थलाभी सुतमिव सततं पातु तं सा च देवी
सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयातु॥७॥
निर्विघ्नं तस्य विद्या प्रभवति सततं चाऽशु ग्रन्थप्रबोधः
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षाद्।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्ये
वाग्देव्याः संप्रसादात् त्रिजगति विजयो जायते तस्य साक्षाद् ॥८॥
ब्रह्मचारी व्रतीमौनी त्रयोदश्यामहर्निशम्।
सारस्वतो जनः पाठाद् भवेदिष्टार्थ लाभवान्॥९॥
पक्षद्वये त्रयोदश्यामेकविंशतिसङ्ख्यया।
अविच्छिन्नं पठेद्यस्तु सुभगो लोकविश्रुतः।
वाञ्छितं फलमाप्नोति षण्मासैर्नाऽत्र संशयः॥१०॥
(ॐ ह्रीं ऐं धीं क्लीं सौं श्रीं वद वद वाग्वादिन्यै स्वाहा।)
मंत्र बोलकर माला को सिर माथे से
स्पर्श करें।
त्वं माले! सर्वदेवानां सर्वकामप्रदा मता।
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥
॥इति सनत्कुमारसंहितायां सिद्ध सरस्वती स्तोत्रं सम्पूर्णम् ॥
अब पाठ देवी को अर्पण कर दें।
देवीसरस्वती स्तोत्र का प्रत्येक त्रयोदशी को 21 पाठ करने से देवी की विशेष कृपा प्राप्त होती है।
🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼
No comments:
Post a Comment