Tuesday, 28 May 2024

#हनुमत्सहस्रनाम स्तोत्र

#हनुमत्सहस्रनामस्तोत्रम्!! ( #रूद्रयामलतंत्रांर्गत )

    कैलासशिखरे रम्ये देवदेवं महेश्वरम् ।
ध्यानोपरतमासीनं नन्दिभृङ्गिगणैर्वृतम्॥१॥

ध्यानान्ते च प्रसन्नास्यमेकान्ते समुपस्थितम्।
दृष्ट्वा शम्भुं तदा देवी पप्रच्छ कमलानना॥२॥

देव्युवाच
शृणु देव प्रवक्ष्यामि संशयोऽस्ति महान्मम ।
रुद्रैकादशमाख्यातं पुराहं न च वेद्मि तम् ॥ ३॥

कथयस्व महाप्राज्ञ सर्वतो निर्णयं शुभम्।
समाराधयतो लोके भुक्तिमुक्तिफलं भवेत् ॥ ४॥

मन्त्रं यन्त्रं तथा तन्निर्णयं च विधिपूजनम्।
तत्सर्वं ब्रूहि मे नाथ कृतार्था च भवाम्यहम् ॥५॥

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि गोप्यं सर्वागमे सदा।
सर्वस्वं मम लोकानां नृणां स्वर्गापवर्गदम् ॥ ६॥

दश विष्णुर्द्वादशार्कास्ते चैकादश संस्मृताः ।
रुद्रः परमचण्डश्च लोकेऽस्मिन्भुक्तिमुक्तिदः॥७॥

हनुमान्स महादेवः कालकालः सदाशिवः ।
इहैव भुक्तिकैवल्यमुक्तिदः सर्वकामदः ॥ ८॥

चिद्रूपी च जगद्रूपस्तथारूपविराडभूत् ।
रावणस्य वधार्थाय रामस्य च हिताय च ॥ ९॥

अञ्जनीगर्भसम्भूतो वायुरूपी सनातनः।
यस्य स्मरणमात्रेण सर्वविघ्नं विनश्यति ॥१०॥

मन्त्रं तस्य प्रवक्ष्यामि कामदं सुरदुर्लभम्।
नित्यं परतरं लोके देवदैत्येषु दुर्लभम् ॥ ११॥

प्रणवं पूर्वमुद्धृत्य कामराजं ततो वदेत् ।
ॐ नमो भगवते हनुमतेऽपि ततो वदेत् ॥१२॥

ततो वैश्वानरो मायामन्त्रराजमिमं प्रिये ।
एवं बहुतरा मन्त्राः सर्वशास्त्रेषु गोपिताः ॥ १३॥

ॐ क्लीं नमो भगवते हनुमते स्वाहा
येन विज्ञातमात्रेण त्रैलोक्यं वशमानयेत् ।
वह्निं शीतङ्करोत्येव वातं च स्थिरतां नयेत् ॥१४॥

विघ्नं च नाशयत्याशु दासवत्स्याज्जगत्त्रयम् ।
ध्यानं तस्य प्रवक्ष्यामि हनुर्येन प्रसीदति ॥१५॥

~ध्यानम्~-
प्रदीप्तं स्वर्णवर्णाभं बालार्कारुण लोचनम्।
स्वर्णमेरुविशालाङ्गं शतसूर्यसमप्रभम् ॥ १६॥

रक्ताम्बरं धरासीनं सुग्रीवादियुतं तथा ।
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ॥ १७॥

पुच्छवन्तं कपीशं तं महारुद्रं भयङ्करम्।
ज्ञानमुद्रालसद्बाहुं सर्वालङ्कारभूषितम् ॥१८॥

ध्यानस्य धारणादेव विघ्नान्मुक्तः सदा नरः ।
त्रिषु लोकेषु विख्यातः सर्वत्र विजयी भवेत् ॥१९॥

नाम्नां तस्य सहस्रं तु कथयिष्यामि ते शृणु ।
यस्य स्मरणमात्रेण वादी मूको भवेद्ध्रुवम्॥२०॥

स्तम्भनं परसैन्यानां मारणाय च वैरिणाम्।
दारयेच्छाकिनीः शीघ्रं डाकिनीभूतप्रेतकान्॥२१॥

हरणं रोगशत्रूणां कारणं सर्वकर्मणाम् ।
तारणं सर्वविघ्नानां मोहनं सर्वयोषिताम् ॥२२॥

धारणं सर्वयोगानां वारणं शीघ्रमापदाम् ॥२३॥
*******
ॐ अस्य श्रीहनुमतः सहस्रनामस्तोत्र मन्त्रस्य सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीहनुमान् देवता ॐ क्लीं इति बीजम् नम इति कीलकम् । स्वाहेति शक्तिः समस्तपुरुषार्थ सिद्ध्यर्थे जपे विनियोगः।

ॐओङ्कारनमोरूपमोंनमोरूपपालकः।
ओङ्कारमयोङ्कारकृदोङ्कारात्मा सनातनः ॥ २४॥

ब्रह्मब्रह्ममयो ब्रह्मज्ञानी ब्रह्मस्वरूपवित्।
कपीशः कपिनाथश्च कपिनाथसुपालकः ॥ २५॥

कपिनाथप्रियः कालः कपिनाथस्य घातकः ।
कपिनाथशोकहर्ता कपिभर्ता कपीश्वरः ॥ २६॥

कपिजीवनदाता च कपिमूर्तिः कपिर्भृतः।
कालात्मा कालरूपी च कालकालस्तु कालभुक् ॥ २७॥

कालज्ञानी कालकर्ता कालहानिः कलानिधिः ।
कलानिधिप्रियः कर्ता कलानिधिसमप्रभः ॥ २८॥

कलापी च कलापाता कीशत्राता किशां पतिः ।
कमलापतिप्रियः काकस्वरघ्नः कुलपालकः ॥ २९॥

कुलभर्ता कुलत्राता कुलाचारपरायणः ।
काश्यपाह्लादकः काकध्वंसी कर्मकृतां पतिः ॥ ३०॥

कृष्णः कृष्णस्तुतिः कृष्णकृष्णरूपो महात्मवान् ।
कृष्णवेत्ता कृष्णभर्ता कपीशः क्रोधवान् कपिः ॥ ३१॥

कालरात्रिः कुबेरश्च कुबेरवनपालकः ।
कुबेरधनदाता च कौसल्यानन्दजीवनः ॥ ३२॥

कोसलेशप्रियः केतुः कपाली कामपालकः ।
कारुण्यः करुणारूपः करुणानिधिविग्रहः ॥ ३३॥

कारुण्यकर्ता दाता च कपिः साध्यः कृतान्तकः ।
कूर्मः कूर्मपतिः कूर्मभर्ता कूर्मस्य प्रेमवान् ॥ ३४॥

कुक्कुटः कुक्कुटाह्वानः कुञ्जरः कमलाननः ।
कुञ्जरः कलभः केकिनादजित्कल्पजीवनः ॥ ३५॥

कल्पान्तवासी कल्पान्तदाता कल्पविबोधकः ।
कलभः कलहस्तश्च कम्पः कम्पपतिस्तथा ॥ ३६॥

कर्मफलप्रदः कर्मा कमनीयः कलापवान् ।
कमलासनबन्धश्च-कम्पः-कमलासनपूजकः ॥ ३७॥

कमलासनसेवी च कमलासनमानितः ।
कमलासनप्रियः कम्बुः कम्बुकण्ठोऽपि कामधुक् ॥ ३८॥

किञ्जल्करूपी किञ्जल्कः किञ्जल्कावनिवासकः ।
खगनाथप्रियः खड्गी खगनाथप्रहारकः ॥ ३९॥

खगनाथसुपूज्यश्च खगनाथप्रबोधकः ।
खगनाथवरेण्यश्च खरध्वंसी खरान्तकः ॥ ४०॥

खरारिप्रियबन्धुश्च खरारिजीवनः सदा ।
खड्गहस्तः खड्गधनः खड्गहानी च खड्गपः ॥ ४१॥

खञ्जरीटप्रियः खञ्जः खेचरात्मा खरारिजित् ॥ ४२॥

खञ्जरीटपतिः पूज्यः खञ्जरीटपचञ्चलः ।
खद्योतबन्धुः खद्योतः खद्योतनप्रियः सदा ॥ ४३॥

गरुत्मान् गरुडो गोप्यो गरुत्मद्दर्पहारकः ।
गर्विष्ठो गर्वहर्ता च गर्वहा गर्वनाशकः ॥ ४४॥

गर्वो गुणप्रियो गाणो गुणसेवी गुणान्वितः ।
गुणत्राता गुणरतो गुणवन्तप्रियो गुणी ॥ ४५॥

गणेशो गणपाती च गणरूपो गणप्रियः ।
गम्भीरोऽथ गुणाकारो गरिमा गरिमप्रदः ॥ ४६॥

गणरक्षो गणहरो गणदो गणसेवितः ।
गवांशो गवयत्राता गर्जितश्च गणाधिपः ॥ ४७॥

गन्धमादनहर्ता च गन्धमादनपूजकः ।
गन्धमादनसेवी च गन्धमादनरूपधृक् ॥ ४८॥

गुरुर्गुरुप्रियो गौरो गुरुसेव्यो गुरून्नतः ।
गुरुगीतापरो गीतो गीतविद्यागुरुर्गुरुः ॥ ४९॥

गीताप्रियो गीतरातो गीतज्ञो गीतवानपि ।
गायत्र्या जापको गोष्ठो गोष्ठदेवोऽथ गोष्ठपः ॥ ५०॥

गोष्पदीकृतवारीशो गोविन्दो गोपबन्धकः ।
गोवर्धनधरो गर्वो गोवर्धनप्रपूजकः ॥ ५१॥

गन्धर्वो गन्धर्वरतो गन्धर्वानन्दनन्दितः ।
गन्धो गदाधरो गुप्तो गदाढ्यो गुह्यकेश्वरः ॥

गिरिजापूजको गीश्च गीर्वाणो गोष्पतिस्तथा ।
गिरिर्गिरिप्रियो गर्भो गर्भपो गर्भवासकः ॥ ५३॥

गभस्तिग्रासको ग्रासो ग्रासदाता ग्रहेश्वरः ।
ग्रहो ग्रहेशानो ग्राहो ग्रहदोषविनाशनः ॥ ५४॥

ग्रहारूढो ग्रहपतिर्गर्हणो ग्रहणाधिपः ।
गोली गव्यो गवेशश्च गवाक्षमोक्षदायकः ॥ ५५॥

गणो गम्यो गणदाता गरुडध्वजवल्लभः ।
गेहो गेहप्रदो गम्यो गीतागानपरायणः ॥ ५६॥

गह्वरो गह्वरत्राणो गर्गो गर्गेश्वरप्रदः ।
गर्गप्रियो गर्गरतो गौतमो गौतमप्रदः ॥ ५७॥

गङ्गास्नायी गयानाथो गयापिण्डप्रदायकः ।
गौतमीतीर्थचारी च गौतमीतीर्थपूजकः ॥ ५८॥

गणेन्द्रोऽथ गणत्राता ग्रन्थदो ग्रन्थकारकः ।
घनाङ्गो घातको घोरो घोररूपी घनप्रदः ॥ ५९॥

घोरदंष्ट्रो घोरनखो घोरघाती घनेतरः ।
घोरराक्षसघाती च घोररूप्यघदर्पहा ॥ ६०॥

घर्मो घर्मप्रदश्चैव घर्मरूपी घनाघनः ।
घनध्वनिरतो घण्टावाद्यप्रियघृणाकरः ॥ ६१॥

घोघो घनस्वनो घूर्णो घूर्णितोऽपि घनालयः ।
ङकारो ङप्रदो ङान्तश्चन्द्रिकामोदमोदकः ॥ ६२॥

चन्द्ररूपश्चन्द्रवन्द्यश्चन्द्रात्मा चन्द्रपूजकः ।
चन्द्रप्रेमश्चन्द्रबिम्बश्चामरप्रियश्चञ्चलः ॥ ६३॥

चन्द्रवक्त्रश्चकोराक्षश्चन्द्रनेत्रश्चतुर्भुजः ।
चञ्चलात्मा चरश्चर्मी चलत्खञ्जनलोचनः ॥ ६४॥

चिद्रूपश्चित्रपानश्च चलच्चित्ताचितार्चितः ।
चिदानन्दश्चितश्चैत्रश्चन्द्रवंशस्य पालकः ॥ ६५॥

छत्रश्छत्रप्रदश्छत्री छत्ररूपी छिदाञ्छदः ।
छलहा छलदश्छिन्नश्छिन्नघाती क्षपाकरः ॥ ६६॥

छद्मरूपी छद्महारी छली छलतरुस्तथा ।
छायाकरद्युतिश्छन्दश्छन्दविद्याविनोदकः ॥ ६७॥

छिन्नारातिश्छिन्नपापश्छन्दवारणवाहकः ।
छन्दश्छ(क्ष)त्रहनश्छि(क्षि)प्रश्छ(क्ष)-
              वनश्छन्मदश्छ(क्ष)मी ॥ ६८॥

क्षमागारः क्षमाबन्धः क्षपापतिप्रपूजकः ।
छलघाती छिद्रहारी छिद्रान्वेषणपालकः ॥ ६९॥

जनो जनार्दनो जेता जितारिर्जितसङ्गरः ।
जितमृत्युर्जरातीतो जनार्दनप्रियो जयः ॥ ७०॥

जयदो जयकर्ता च जयपातो जयप्रियः ।
जितेन्द्रियो जितारातिर्जितेन्द्रियप्रियो जयी ॥ ७१॥

जगदानन्ददाता च जगदानन्दकारकः ।
जगद्वन्द्यो जगज्जीवो जगतामुपकारकः ॥ ७२॥

जगद्धाता जगद्धारी जगद्बीजो जगत्पिता ।
जगत्पतिप्रियो जिष्णुर्जिष्णुजिज्जिष्णुरक्षकः ॥ ७३॥

जिष्णुवन्द्यो जिष्णुपूज्यो जिष्णुमूर्तिविभूषितः ।
जिष्णुप्रियो जिष्णुरतो जिष्णुलोकाभिवासकः ॥

जयो जयप्रदो जायो जायको जयजाड्यहा ।
जयप्रियो जनानन्दो जनदो जनजीवनः ॥ ७५॥

जयानन्दो जपापुष्पवल्लभो जयपूजकः ।
जाड्यहर्ता जाड्यदाता जाड्यकर्ता जडप्रियः ॥ ७६॥

जगन्नेता जगन्नाथो जगदीशो जनेश्वरः ।
जगन्मङ्गलदो जीवो जगत्यवनपावनः ॥ ७७॥

जगत्त्राणो जगत्प्राणो जानकीपतिवत्सलः ।
जानकीपतिपूज्यश्च जानकीपतिसेवकः ॥ ७८॥

जानकीशोकहारी च जानकीदुःखभञ्जनः ।
यजुर्वेदो यजुर्वक्ता यजुःपाठप्रियो व्रती ॥ ७९॥

जिष्णुर्जिष्णुकृतो जिष्णुधाता जिष्णुविनाशनः ।
जिष्णुहा जिष्णुपाती तु जिष्णुराक्षसघातकः ॥ ८०॥

जातीनामग्रगण्यश्च जातीनां वरदायकः ।
झुँझुरो झूझुरो झूर्झनवरो झञ्झानिषेवितः ॥ ८१॥

झिल्लीरवस्वरो ञन्तो ञवणो ञनतो ञदः ।
टकारादिष्टकारान्ताष्टवर्णाष्टप्रपूजकः ॥ ८२॥

टिट्टिभष्टिट्टिभस्तष्टिष्टिट्टिभप्रियवत्सलः ।
ठकारवर्णनिलयष्ठकारवर्णवासितः ॥ ८३॥

ठकारवीरभरितष्ठकारप्रियदर्शकः ।
डाकिनीनिरतो डङ्को डङ्किनीप्राणहारकः ॥ ८४॥

डाकिनीवरदाता च डाकिनीभयनाशनः ।
डिण्डिमध्वनिकर्ता च डिम्भो डिम्भातरेतरः ॥ ८५॥

डक्काढक्कानवो ढक्कावाद्यष्ठक्कामहोत्सवः ।
णान्त्यो णान्तो णवर्णश्च णसेव्यो णप्रपूजकः ॥ ८६॥

तन्त्री तन्त्रप्रियस्तल्पस्तन्त्रजित्तन्त्रवाहकः ।
तन्त्रपूज्यस्तन्त्ररतस्तन्त्रविद्याविशारदः ॥ ८७॥

तन्त्रयन्त्रजयी तन्त्रधारकस्तन्त्रवाहकः ।
तन्त्रवेत्ता तन्त्रकर्ता तन्त्रयन्त्रवरप्रदः ॥ ८८॥

तन्त्रदस्तन्त्रदाता च तन्त्रपस्तन्त्रदायकः ।
तत्त्वदाता च तत्त्वज्ञस्तत्त्वस्तत्त्वप्रकाशकः ॥ ८९॥

तन्द्रा च तपनस्तल्पतलातलनिवासकः ।
तपस्तपःप्रियस्तापत्रयतापी तपःपतिः ॥ ९०॥

तपस्वी च तपोज्ञाता तपतामुपकारकः ।
तपस्तपोत्रपस्तापी तापदस्तापहारकः ॥ ९१॥

तपःसिद्धिस्तपोऋद्धिस्तपोनिधिस्तपःप्रभुः ।
तीर्थस्तीर्थरतस्तीव्रस्तीर्थवासी तु तीर्थदः ॥ ९२॥

तीर्थपस्तीर्थकृत्तीर्थस्वामी तीर्थविरोधकः ।
तीर्थसेवी तीर्थपतिस्तीर्थव्रतपरायणः ॥ ९३॥

त्रिदोषहा त्रिनेत्रश्च त्रिनेत्रप्रियबालकः ।
त्रिनेत्रप्रियदासश्च त्रिनेत्रप्रियपूजकः ॥ ९४॥

त्रिविक्रमस्त्रिपादूर्ध्वस्तरणिस्तारणिस्तमः ।
तमोरूपी तमोध्वंसी तमस्तिमिरघातकः ॥ ९५॥

तमोधृक्तमसस्तप्ततारणिस्तमसोऽन्तकः ।
तमोहृत्तमकृत्ताम्रस्ताम्रौषधिगुणप्रदः ॥

तैजसस्तेजसां मूर्तिस्तेजसः प्रतिपालकः ।
तरुणस्तर्कविज्ञाता तर्कशास्त्रविशारदः ॥ ९७॥

तिमिङ्गिलस्तत्त्वकर्ता तत्त्वदाता व तत्त्ववित् ।
तत्त्वदर्शी तत्त्वगामी तत्त्वभुक्तत्त्ववाहनः ॥ ९८॥

त्रिदिवस्त्रिदिवेशश्च त्रिकालश्च तमिस्रहा ।
स्थाणुः स्थाणुप्रियः स्थाणुः सर्वतोऽपि च वासकः ॥ ९९॥

दयासिन्धुर्दयारूपो दयानिधिर्दयापरः ।
दयामूर्तिर्दयादाता दयादानपरायणः ॥ १००॥

देवेशो देवदो देवो देवराजाधिपालकः ।
दीनबन्धुर्दीनदाता दीनोद्धरणदिव्यदृक् ॥ १०१॥

दिव्यदेहो दिव्यरूपो दिव्यासननिवासकः ।
दीर्घकेशो दीर्घपुच्छो दीर्घसूत्रोऽपि दीर्घभुक् ॥ १०२॥

दीर्घदर्शी दूरदर्शी दीर्घबाहुस्तु दीर्घपः ।
दानवारिर्दरिद्रारिर्दैत्यारिर्दस्युभञ्जनः ॥ १०३॥

दंष्ट्री दण्डी दण्डधरो दण्डपो दण्डदायकः ।
दामोदरप्रियो दत्तात्रेयपूजनतत्परः ॥ १०४॥

दर्वीदलहुतप्रीतो दद्रुरोगविनाशकः ।
धर्मो धर्मी धर्मचारी धर्मशास्त्रपरायणः ॥ १०५॥

धर्मात्मा धर्मनेता च धर्मदृग्धर्मधारकः ।
धर्मध्वजो धर्ममूर्तिर्धर्मराजस्य त्रासकः ॥ १०६॥

धाता ध्येयो धनो धन्यो धनदो धनपो धनी ।
धनदत्राणकर्ता च धनपप्रतिपालकः ॥ १०७॥

धरणीधरप्रियो धन्वी धनवद्धनधारकः ।
धन्वीशवत्सलो धीरो धातृमोदप्रदायकः ॥ १०८॥

धात्रैश्वर्यप्रदाता च धात्रीशप्रतिपूजकः ।
धात्रात्मा च धरानाथो धरानाथप्रबोधकः ॥ १०९॥

धर्मिष्ठो धर्मकेतुश्च धवलो धवलप्रियः ।
धवलाचलवासी च धेनुदो धेनुपो धनी ॥ ११०॥

ध्वनिरूपो ध्वनिप्राणो ध्वनिधर्मप्रबोधकः ।
धर्माध्यक्षो ध्वजो धूम्रो धातुरोधिविरोधकः ॥ १११॥

नारायणो नरो नेता नदीशो नरवानरः ।
नन्दीसङ्क्रमणो नाट्यो नाट्यवेत्ता नटप्रियः ॥ ११२॥

नारायणात्मको नन्दी नन्दिशृङ्गिगणाधिपः ।
नन्दिकेश्वरवर्मा च नन्दिकेश्वरपूजकः ॥ ११३॥

नरसिंहो नटो नीपो नखयुद्धविशारदः ।
नखायुधो नलो नीलो नलनीलप्रमोदकः ॥ ११४॥

नवद्वारपुराधारो नवद्वारपुरातनः ।
नरनारयणस्तुत्यो नखनाथो नगेश्वरः ॥ ११५॥

नखदंष्ट्रायुधो नित्यो निराकारो निरञ्जनः ।
निष्कलङ्को निरवद्यो निर्मलो निर्ममो नगः ॥ ११६॥

नगरग्रामपालश्च निरन्तो नगराधिपः ।
नागकन्याभयध्वंसी नागारिप्रियनागरः ॥ ११७॥

पीताम्बरः पद्मनाभः पुण्डरीकाक्षपावनः ।
पद्माक्षः पद्मवक्त्रश्च पद्मासनप्रपूजकः ॥ ११८॥

पद्ममाली पद्मपरः पद्मपूजनतत्परः ।
पद्मपाणिः पद्मपादः पुण्डरीकाक्षसेवनः ॥ ११९॥

पावनः पवनात्मा च पवनात्मजः पापहा ।
परः परतरः पद्मः परमः परमात्मकः ॥ १२०॥

पीताम्बरः प्रियः प्रेम प्रेमदः प्रेमपालकः ।
प्रौढः प्रौढपरः प्रेतदोषहा प्रेतनाशकः ॥ १२१॥

प्रभञ्जनान्वयः पञ्च पञ्चाक्षरमनुप्रियः ।
पन्नगारिः प्रतापी च प्रपन्नः परदोषहा ॥ १२२॥

पराभिचारशमनः परसैन्यविनाशकः ।
प्रतिवादिमुखस्तम्भः पुराधारः पुरारिनुत् ॥ १२३॥

पराजितः परम्ब्रह्म परात्परपरात्परः ।
पातालगः पुराणश्च पुरातनः प्लवङ्गमः ॥ १२४॥

पुराणपुरुषः पूज्यः पुरुषार्थप्रपूरकः ।
प्लवगेशः पलाशारिः पृथुकः पृथिवीपतिः ॥ १२५॥

पुण्यशीलः पुण्यराशिः पुण्यात्मा पुण्यपालकः ।
पुण्यकीर्तिः पुण्यगीतिः प्राणदः प्राणपोषकः ॥ १२६॥

प्रवीणश्च प्रसन्नश्च पार्थध्वजनिवासकः ।
पिङ्गकेशः पिङ्गरोमा प्रणवः पिङ्गलप्रणः ॥ १२७॥

पराशरः पापहर्ता पिप्पलाश्रयसिद्धिदः ।
पुण्यश्लोकः पुरातीतः प्रथमः पुरुषः पुमान् ॥ १२८॥

पुराधारश्च प्रत्यक्षः परमेष्ठी पितामहः ।
फुल्लारविन्दवदनः फुल्लोत्कमललोचनः ॥ १२९॥

फूत्कारः फूत्करः फूश्च फूदमन्त्रपरायणः ।
स्फटिकाद्रिनिवासी च फुल्लेन्दीवरलोचनः ॥ १३०॥

वायुरूपी वायुसुतो वाय्वात्मा वामनाशकः ।
वनो वनचरो बालो बालत्राता तु बालकः ॥ १३१॥

विश्वनाथश्च विश्वं च विश्वात्मा विश्वपालकः ।
विश्वधाता विश्वकर्ता विश्ववेत्ता विशाम्पतिः ॥ १३२॥

विमलो विमलज्ञानो विमलानन्ददायकः ।
विमलोत्पलवक्त्रश्च विमलात्मा विलासकृत् ॥ १३३॥

बिन्दुमाधवपूज्यश्च बिन्दुमाधवसेवकः ।
बीजोऽथ वीर्यदो बीजहारी बीजप्रदो विभुः ॥ १३४॥

विजयो बीजकर्ता च विभूतिर्भूतिदायकः ।
विश्ववन्द्यो विश्वगम्यो विश्वहर्ता विराट्तनुः ॥ १३५॥

बुलकारहतारातिर्वसुदेवो वनप्रदः ।
ब्रह्मपुच्छो ब्रह्मपरो वानरो वानरेश्वरः ॥ १३६॥

बलिबन्धनकृद्विश्वतेजा विश्वप्रतिष्ठितः ।
विभोक्ता च वायुदेवो वीरवीरो वसुन्धरः ॥ १३७॥

वनमाली वनध्वंसी वारुणो वैष्णवो बली ।
विभीषणप्रियो विष्णुसेवी वायुगविर्विदुः ॥ १३८॥

विपद्मो वायुवंश्यश्च वेदवेदाङ्गपारगः ।
बृहत्तनुर्बृहत्पादो बृहत्कायो बृहद्यशाः ॥ १३९॥

बृहन्नासो बृहद्बाहुर्बृहन्मूर्तिर्बृहत्स्तुतिः ।
बृहद्धनुर्बृहज्जङ्घो बृहत्कायो बृहत्करः ॥ १४०॥

बृहद्रतिर्बृहत्पुच्छो बृहल्लोकफलप्रदः ।
बृहत्सेव्यो बृहच्छक्तिर्बृहद्विद्याविशारदः ॥ १४१॥

बृहल्लोकरतो विद्या विद्यादाता विदिक्पतिः ।
विग्रहो विग्रहरतो व्याधिनाशी च व्याधिदः ॥ १४२॥

विशिष्टो बलदाता च विघ्ननाशो विनायकः ।
वराहो वसुधानाथो भगवान् भवभञ्जनः ॥ १४३॥

भाग्यदो भयकर्ता च भागो भृगुपतिप्रियः ।
भव्यो भक्तो भरद्वाजो भयाङ्घ्रिर्भयनाशनः ॥ १४४॥

माधवो मधुरानाथो मेघनादो महामुनिः ।
मायापतिर्मनस्वी च मायातीतो मनोत्सुकः ॥ १४५॥

मैनाकवन्दितामोदो मनोवेगी महेश्वरः ।
मायानिर्जितरक्षाश्च मायानिर्जितविष्टपः ॥ १४६॥

मायाश्रयश्च निलयो मायाविध्वंसको मयः ।
मनोयमपरो याम्यो यमदुःखनिवारणः ॥ १४७॥

यमुनातीरवासी च यमुनातीर्थचारणः ।
रामो रामप्रियो रम्यो राघवो रघुनन्दनः ॥ १४८॥

रामप्रपूजको रुद्रो रुद्रसेवी रमापतिः ।
रावणारी रमानाथवत्सलो रघुपुङ्गवः ॥ १४९॥

रक्षोघ्नो रामदूतश्च रामेष्टो राक्षसान्तकः ।
रामभक्तो रामरूपो राजराजो रणोत्सुकः ॥ १५०॥

लङ्काविध्वंसको लङ्कापतिघाती लताप्रियः ।
लक्ष्मीनाथप्रियो लक्ष्मीनारायणात्मपालकः ॥ १५१॥

प्लवगाब्धिहेलकश्च लङ्केशगृहभञ्जनः ।
ब्रह्मस्वरूपी ब्रह्मात्मा ब्रह्मज्ञो ब्रह्मपालकः ॥ १५२॥

ब्रह्मवादी च विक्षेत्रं विश्वबीजं च विश्वदृक् ।
विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वधृक् ॥ १५३॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वेश्वरो विभुः ।
शुक्लः शुक्रप्रदः शुक्रः शुक्रात्मा च शुभप्रदः ॥ १५४॥

शर्वरीपतिशूरश्च शूरश्चाथ श्रुतिश्रवाः ।
शाकम्भरीशक्तिधरः शत्रुघ्नः शरणप्रदः ॥ १५५॥

शङ्करः शान्तिदः शान्तः शिवः शूली शिवार्चितः ।
श्रीरामरूपः श्रीवासः श्रीपदः श्रीकरः शुचिः ॥ १५६॥

श्रीशः श्रीदः श्रीकरश्च श्रीकान्तप्रियः श्रीनिधिः ।
षोडशस्वरसंयुक्तः षोडशात्मा प्रियङ्करः ॥ १५७॥

षडङ्गस्तोत्रनिरतः षडाननप्रपूजकः ।
षट्शास्त्रवेत्ता षड्बाहुः षट्स्वरूपः षडूर्मिपः ॥ १५८॥

सनातनः सत्यरूपः सत्यलोकप्रबोधकः ।
सत्यात्मा सत्यदाता च सत्यव्रतपरायणः ॥ १५९॥

सौम्यः सौम्यप्रदः सौम्यदृक्सौम्यः सौम्यपालकः ।
सुग्रीवादियुतः सर्वसंसारभयनाशनः ॥ १६०॥

सूत्रात्मा सूक्ष्मसन्ध्यश्च स्थूलः सर्वगतिः पुमान् ।
सुरभिः सागरः सेतुः सत्यः सत्यपराक्रमः ॥ १६१॥

सत्यगर्भः सत्यसेतुः सिद्धिस्तु सत्यगोचरः ।
सत्यवादी सुकर्मा च सदानन्दैक ईश्वरः ॥ १६२॥

सिद्धिः साध्यः सुसिद्धश्च सङ्कल्पः सिद्धिहेतुकः ।
सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ १६३॥

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ १६४॥

सप्तच्छन्दोनिधिः सप्त सप्तपातालसंश्रयः ।
सङ्कर्षणः सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ १६५॥

हनुमान् हर्षदाता च हरो हरिहरीश्वरः ।
क्षुद्रराक्षसघाती च क्षुद्धतक्षान्तिदायकः ॥ १६६॥

अनादीशो ह्यनन्तश्च आनन्दोऽध्यात्मबोधकः ।
इन्द्र ईशोत्तमश्चैव उन्मत्तजन ऋद्धिदः ॥ १६७॥

ऋवर्णो ऌलुपदोपेत ऐश्वर्यं औषधीप्रियः ।
औषधश्चांशुमांश्चैव अकारः सर्वकारणः ॥ १६८॥

इत्येतद्रामदूतस्य नाम्नां चैव सहस्रकम् ।
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ १६९॥

पठनात्पाठनाद्वापि सर्वा सिद्धिर्भवेत्प्रिये ।
मोक्षार्थी लभते मोक्षं कामार्थी काममाप्नुयात् ॥ १७०॥

विद्यार्थी लभते विद्यां वेदव्याकरणादिकम् ।
इच्छाकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ १७१॥

पुत्रार्थी लभते पुत्रं वरायुस्सहितं पुमान् ।
क्षेत्रं च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ १७२॥

दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ।
दुःखौघो नश्यते तस्य सम्पत्तिर्वर्द्धते चिरम् ॥ १७३॥

चतुर्विधं वस्तु तस्य भवत्येव न संशयः ।
अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ १७४॥

त्रिकालं पठनात्तस्य सिद्धिः स्यात्करसंस्थिता ।
अर्धरात्रे रवौ धृत्वा कण्ठदेशे नरः शुचिः ॥ १७५॥

दशावर्तं पठेन्मर्त्यः सर्वान्कामानवाप्नुयात् ।
भौमे निशान्ते न्यग्रोधमूले स्थित्वा विचक्षणः ॥ १७६॥

दशावर्तं पठेन्मर्त्यः सार्वभौमः प्रजायते ।
अर्कमूलेऽर्कवारे तु यो मध्याह्ने शुचिर्जपेत् ॥ १७७॥

चिरायुः स सुखी पुत्री विजयी जायते क्षणात् ।
ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं च पठेन्नरः ॥ १७८॥

यं यं कामयते कामं लभते तं न संशयः ।
सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं परम् ॥ १७९॥

डाकिनीभूतप्रेतेषु ग्रहपीडाहरं तथा ।
ज्वरापस्मारशमनं यक्ष्मप्लीहादिवारणम् ॥ १८०॥

सर्वसौख्यप्रदं स्तोत्रं सर्वसिद्धिप्रदं तथा ।
सर्वान्कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १८१॥

। इति श्रीरुद्रयामलतः श्रीहनुमत्सहस्रनाम स्तोत्रं सम्पूर्णम् ।

#हनुमान #मंगल

Saturday, 25 May 2024

#नारदजयंती

#नारदजयंती 
भगवान की भक्ति प्राप्त करने का यह सबसे श्रेष्ठ दिवस माना जाता है । 
इस दिन नारायण नाम का जप करें -
"जप मंत्र" 
१_ॐ नमो भगवते वासुदेवाय।
२_ॐ नमो नारायणय।
३_ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मी वासुदेवाय नम:!

       हिन्दूपंचांग के अनुसार, प्रतिवर्ष ज्येष्ठमाह में कृष्णपक्ष की प्रतिपदा तिथि को मनाई जाती है।
नारद मुनि के एक हाथ में वीणा है और दूसरे हाथ में भी वाद्य यंत्र है. ऋषि नारद मुनि प्रकाण्ड विद्वान थे। वह हर समय नारायण-नारायण का जप किया करते हैं। नारायण विष्णु भगवान का ही एक नाम है। 
 नारद मुनि को देवताओं का संदेशवाहक कहा जाता है. वह तीनों लोकों में संवाद का माध्यम बनते थे। ऋषि नारद मुनि भगवान विष्णु के अनन्य भक्त और परमपिता ब्रह्मा जी की मानस संतान माने जाते हैं। ऋषि नारद भगवान नारायण के भक्त हैं, जो भगवान विष्णु जी के रूपों में से एक हैं।
धार्मिक मान्यता है कि इस दिन नारद जी की पूजा आराधना करने से भक्‍तों को बल, बुद्धि और सात्विक शक्ति की प्राप्ति होती है।
पौराणिक कथा के अनुसार, नारद मुनि ब्रह्माजी के मानस पुत्र हैं।

ब्रह्माजी का मानस पुत्र बनने के लिए उन्होंने पिछले जन्म में कड़ी तपस्या की थी। कहा जाता है कि पूर्व जन्म में नारद मुनि गंधर्व कुल में पैदा हुए थे और और उन्हें अपने रूप पर बहुत ही घमंड था।पूर्व जन्म में उनका नाम उपबर्हण था। एक बार कुछ अप्सराएं और गंधर्व गीत और नृत्य से भगवान ब्रह्मा की उपासना कर रही थीं।तब उपबर्हण स्त्रियों के साथ श्रृंगार भाव से वहां आए। ये देख ब्रह्माजी अत्यंत क्रोधित हो उठे और उपबर्हण को श्राप दे दिया कि वह 'शूद्र योनि' में जन्म लेगा।

ब्रह्माजी के श्राप से उपबर्हण का जन्म एक शूद्र दासी के पुत्र हरिदास के रूप में हुआ। वे सन्तों की सेवा में लगे रहे तभी एक संत गुरु ने उन्हें मंत्र दिया। 

विशेष मंत्र:-ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि प्रधुम्मनायनिरूद्धाय नमः संकर्षणाय च।।
 
बालक ने अपना पूरा जीवन ईश्वर की भक्ति में लगाने का संकल्प लिया और ईश्वर को जानने और उनके दर्शन करने की इच्छा पैदा हुई।बालक के लगातार तप के बाद एक दिन अचानक बाल कृष्ण की झलक दिखी और आकाशवाणी हुई, 

हे बालक! इस जन्म में आपको भगवान के दर्शन दुबारा नहीं होंगे बल्कि अगले जन्म में आप उनके पार्षद के रूप उन्हें एक बार फिर प्राप्त कर सकेंगे।और 

भगवान केे पार्षद बने।और उनको वीणा उपहार में प्राप्त हुई। तव से सभी लोकों में भ्रमण  करते हुए नारायण नारायण की ध्वनि करते भगवान का संदेश दे ते रहते हैं।

नारद जी की वीणा के स्वर,भक्ति रस के रहस्य से युक्त हैं। आजके दिन श्री भगवान विष्णु के अवतार श्री कृष्ण के मंदिर में एक बांसुरी जरूर भेट करें। गीता में भगवान ने कहा है "देवर्षिणाम् च नारद" २४ अवतारों में नारद जी भी आते हैं। वे अपनी वीणा बजाते हरि नाम का संकीर्तन करते हुए भक्ति रस के संगीत से तीनों लोकों के जीवों को तारने का कार्य करते हैं । 
#नारद जयंती की पूजा-विधि
        स्नान करने के बाद चाहे तो व्रत का संकल्प करें, नहीं तो साफ-सुथरा वस्त्र पहन कर पूजा-अर्चना करें। नारद मुनि को चंदन, तुलसी के पत्ते, कुमकुम, अगरबत्ती, फूल अर्पित करें। शाम को पूजा करने के बाद, भक्त भगवान विष्णु की आरती करें। दान पुण्य का कार्य करें। गरीब ब्राह्मणों को भोजन कराएं और उन्हें कपड़े और अन्न दान करें।
कहा जाता कि वाल्मीकि जी को रामायण लिखने की प्रेरणा और वेद्व्यास जी को देवीभागवत की रचना करने की प्ररेणा भी नारद जी ने ही दी थी । ध्रुव और प्रह्लाद, राजा अम्बरीष को भक्ति मार्ग का उपदेश, भक्ति के रहस्य और सूत्र भी बताये थे । 
 
     ।।ॐ नमो नारदाय !!

Monday, 20 May 2024

महाराज प्रह्लाद कृत ब्रह्मांड पुराण में वर्णित नरसिंह कवच

महाराज प्रह्लाद कृत ब्रह्मांड पुराण में वर्णित नरसिंह कवच

नरसिंह कवच सभी मंत्रों (मंत्र-राज) का राजा है। इस कवच के उच्चारण से ही अति शुभ और अति शीघ्र फल मिलता है !

#श्रीनरसिंहकवच !!

विनयोग-
ॐ अस्य श्रीलक्ष्मीनृसिंह कवच महामंत्रस्य ब्रह्माऋिषः, अनुष्टुप् छन्दः, श्रीनृसिंहोदेवता, ॐक्षौ बीजम्, ॐ रौं शक्तिः, ॐ ऐं क्लीं कीलकम्
मम सर्वरोग, शत्रु, चौर, पन्नग, व्याघ्र, वृश्चिक, भूत-प्रेत, पिशाच, डाकिनी शाकिनी, यन्त्र मंत्रादि, सर्व विघ्न निवाराणार्थे श्री नृसिहं कवचमहामंत्र जपे विनयोगः।।
एक आचमन जल छोड़ दें।

अथ ऋष्यादिन्यास –
ॐ ब्रह्माऋषये नमः शिरसि।
ॐ अनुष्टुप् छन्दसे नमो मुखे।
ॐ श्रीलक्ष्मी नृसिंह देवताये नमो हृदये।
ॐ क्षौं बीजाय नमोनाभ्याम्।
ॐ शक्तये नमः कटिदेशे।
ॐ ऐं क्लीं कीलकाय नमः पादयोः।
ॐ श्रीनृसिंह कवचमहामंत्र जपे विनयोगाय नमः सर्वाङ्गे॥

अथ करन्यास –
ॐ क्षौं अगुष्ठाभ्यां नमः।
ॐ प्रौं तर्जनीभ्यां नमः।
ॐ ह्रौं मध्यमाभयां नमः।
ॐ रौं अनामिकाभ्यां नमः।
ॐ ब्रौं कनिष्ठिकाभ्यां नमः।
ॐ जौं करतलकर पृष्ठाभ्यां नमः।

अथ हृदयादिन्यास –
ॐ क्षौ हृदयाय नमः।
ॐ प्रौं शिरसे स्वाहा।
ॐ ह्रौं शिखायै वषट्।
ॐ रौं कवचाय हुम्।
ॐ ब्रौं नेत्रत्रयाय वौषट्।
ॐ जौं अस्त्राय फट्।

नृसिंह ध्यान –
ॐ सत्यं ज्ञान सुखस्वरूप ममलं क्षीराब्धि मध्ये स्थित्।
योगारूढमति प्रसन्नवदनं भूषा सहस्रोज्वलम्।

तीक्ष्णं चक्र पीनाक शायकवरान् विभ्राणमर्कच्छवि।
छत्रि भूतफणिन्द्रमिन्दुधवलं लक्ष्मी नृसिंह भजे॥

कवच पाठ –
ॐ नमोनृसिंहाय सर्वदुष्ट विनाशनाय सर्वंजन मोहनाय सर्वराज्यवश्यं कुरु कुरु स्वाहा।

ॐ नमो नृसिंहाय नृसिंहराजाय नरकेशाय नमो नमस्ते। ॐ नमः कालाय काल द्रष्ट्राय कराल वदनाय च।

ॐ उग्राय उग्र वीराय उग्र विकटाय उग्र वज्राय वज्र देहिने रुद्राय रुद्र घोराय भद्राय भद्रकारिणे ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा !!

ॐ नमो नृसिंहाय कपिलाय कपिल जटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्ड रुपाय।

ॐ ह्रां ह्रीं ह्रौं ॐ ह्रुं ह्रुं ह्रुं ॐ क्ष्रां क्ष्रीं क्ष्रौं फट् स्वाहा।

ॐ नमो नृसिंहाय कपिल जटाय ममः सर्व रोगान् बन्ध बन्ध, सर्व ग्रहान बन्ध बन्ध, सर्व दोषादीनां बन्ध बन्ध, सर्व वृश्चिकादिनां विषं बन्ध बन्ध, सर्व भूत प्रेत, पिशाच, डाकिनी शाकिनी, यंत्र मंत्रादीन् बन्ध बन्ध, कीलय कीलय चूर्णय चूर्णय, मर्दय मर्दय, ऐं ऐं एहि एहि, मम येये विरोधिन्स्तान् सर्वान् सर्वतो हन हन, दह दह, मथ मथ, पच पच, चक्रेण, गदा, वज्रेण भष्मी कुरु कुरु स्वाहा।

ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः स्वाहा। ॐ आं ह्रीं क्ष्रौं क्रौं ह्रुं फट्।

ॐ नमो भगवते सुदर्शन नृसिंहाय मम विजय रुपे कार्ये ज्वल ज्वल प्रज्वल प्रज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं सर्व प्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा।

ॐ क्षौं नमो भगवते नृसिंहाय एतद्दोषं प्रचण्ड चक्रेण जहि जहि स्वाहा।
ॐ नमो भगवते महानृसिंहाय कराल वदन दंष्ट्राय मम विघ्नान् पच पच स्वाहा।

ॐ नमो नृसिंहाय हिरण्यकश्यप वक्षस्थल विदारणाय त्रिभुवन व्यापकाय भूत-प्रेत पिशाच डाकिनी-शाकिनी कालनोन्मूलनाय मम शरीरं स्तम्भोद्भव समस्त दोषान् हन हन, शर शर, चल चल, कम्पय कम्पय, मथ मथ, हुं फट् ठः ठः।

ॐ नमो भगवते भो भो सुदर्शन नृसिंह ॐ आं ह्रीं क्रौं क्ष्रौं हुं फट्।
ॐ सहस्त्रार मम अंग वर्तमान ममुक रोगं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रुं ह्रुं फट् मम शत्रु हन हन द्विष द्विष तद पचयं कुरु कुरु मम सर्वार्थं साधय साधय।

ॐ नमो भगवते नृसिंहाय ॐ क्ष्रौं क्रौं आं ह्रीं क्लीं श्रीं रां स्फ्रें ब्लुं यं रं लं वं षं स्त्रां हुं फट् स्वाहा।

ॐ नमः भगवते नृसिंहाय नमस्तेजस्तेजसे अविराभिर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस ग्रस ॐ स्वाहा।

अभयमभयात्मनि भूयिष्ठाः ॐ क्षौम्।
ॐ नमो भगवते तुभ्य पुरुषाय महात्मने हरिंऽद्भुत सिंहाय ब्रह्मणे परमात्मने।

ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखम्।
नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम्।
********************
नरसिंह कवच मंत्र से लाभ-
      नरसिंह कवच दुनिया में बुराई और अत्याचार के खिलाफ अंतिम सुरक्षा है। इस नरसिंह कवच को स्मरण करने से भक्तों को किसी भी नुकसान से बचा जा सकता है और एक सुरक्षित,स्वस्थ और शांत और सामान्य जीवन प्रदान करता है।

नरसिंह कवच मंत्र भक्तों के कल्याण की रक्षा के लिए एक सुरक्षा कवच के रूप में कार्य करता है। यह एक सर्व अपारदर्शिता पर आधारित है और स्वर्गीय ग्रहों या मुक्ति के लिए या जीवन के उत्थान के लिए सहायक है । इसका जाप करते हुए ब्रह्मांड के भगवान नरसिंह का ध्यान करना चाहिए, जो एक स्वर्ण सिंहासन पर बैठा है।

वह विजयी हो जाता है ,जो जीत की इच्छा रखता है, और वास्तव में एक विजेता बन जाता है। यह कवच सभी ग्रहों के उलटे प्रभाव को खत्म करता है और समाज में प्रतिष्ठा दिलवाता है !

यह नागों और बिच्छुओं के जहरीले प्रभाव के लिए सर्वोच्च उपाय है, इसके पाठ करने से भूत प्रेत और यमराज भी दूर चले जाते है।

जो नियमित रूप से इस प्रार्थना का जप करता है, चाहे एक या तीन बार (दैनिक), वह विजयी हो जाता है चाहे वह राक्षसों,दुश्मनों या मनुष्यों के बीच हो। हर प्रकार से रक्षा करता है !

वह व्यक्ति, जो इस मंत्र का पाठ करता है, भगवान नरसिंह देव का ध्यान करता है, उसके पेट के रोग सहित उसके सभी रोग समाप्त हो जाते हैं।
 एक सुरक्षा कवच या आध्यात्मिक कवच है।संरक्षण पाने के लिए बहुत शक्तिशाली एवं चमत्कारी है।
यह बुरी आत्माओं से सुरक्षा और भौतिक इच्छाओं की पूर्ति के साथ-साथ भक्ति और शांति में वृद्धि के लिए मंत्र है।
नरसिंह कवच का जप एक व्यक्ति की व्यक्तिगत कुंडली के अंदर की नकारात्मक ऊर्जा और कर्म संरचनाओं को शुद्ध करता है और सभी प्रकार की शुभता को प्रकट करता है।
जो व्यक्ति इसका नियमित जप करता है, वह काले जादू, तंत्र, भूत, आत्माओं, नकारात्मक विचारों, व्यसनों और अन्य हानिकारक चीजों से छुटकारा पाता है।
🙏🙏🙏🙏🙏🙏🙏🙏

Friday, 8 March 2024

#अघोरेश्वर_महादेव_साधना

#अघोरेश्वर #महादेव #साधना
#अघोर #मंत्र :-
ॐ नमः शिवाय महादेवाय नीलकंठाय आदि रुद्राय अघोरमंत्राय अघोर रुद्राय अघोर भद्राय सर्वभय हराय मम सर्व कार्यफल प्रदाय हन हनाय ॐ ॐ ॐ ॐ ॐ टं टं टं टं टं घ्रीं घ्रीं घ्रीं घ्रीं घ्रीं हर हराय सर्व अघोररुपाय त्र्यम्बकाय विरुपाक्षाय ॐ ह्रौं ह्रः ह्रीं ह्रः ग्रं ग्रं ग्रं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ॐ नमः शिवाय अघोरप्रलयप्रचंड रुद्राय अपरिमित वीरविक्रमाय अघोररुद्रमंत्राय सर्वग्रह उच्चाटनाय सर्वजनवशीकरणाय सर्वतोमुख मां रक्ष रक्ष शीघ्रं हूं फट् स्वाहा ।
ॐ क्षां क्षीं क्षूं क्षैं क्षौं क्षः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वर्गमृत्यु पाताल त्रिभुवन संच्चरित देव ग्रहाणां दानव ग्रहाणां ब्रह्मराक्षस ग्रहाणां सर्ववातग्रहाणां सर्व वेताल ग्रहाणां शाकिनी ग्रहाणां डाकिनी ग्रहाणां सर्व भूत ग्रहाणां कामिनी ग्रहाणां सर्व पिंड ग्रहाणां सर्व दोष ग्रहाणां सर्वपस्मारग्रहाणां हन हन हन भक्षय भक्षय भक्षय विरूपाक्षाय दह दह दह हूं फट् स्वाहा ॥
🙏🙏🙏🙏🙏
अपने हाथ में धतूरे का फल या 11 बेलपत्र लेकर इस मन्त्र को आप एक बार करें। मंत्र पूरा हो जाने के बाद अपनी इच्छा बोलते हुए वह शिवलिंग के ऊपर समर्पित कर दें। बाद में इसे जल में विसर्जित करें।  
भगवान शिव का विशेष मंत्र है इसलिए किसी गलत इच्छा के लिए इसका प्रयोग नहीं करेंगे अन्यथा आप को नुकसान हो सकता है । 
       अपनी रक्षा या अपने ऊपर किसी प्रकार की तंत्र बाधा या किए कराए का शक हो तो आप इस प्रयोग को हर सोमवार एवं चतुर्दशी संपन्न करें, आपको अनुकूलता प्राप्त होगी। 
या शिव रात्रि में 108 बार करें। 
कोई नियम विधि बंधन नहीं। उन्मुक्त क्रोध और काम दोनों से बचें। 







#तुलसी #स्तोत्रम् #पुंडरीक कृत

तुलसी स्तोत्रम्‌      (हिंदी अर्थ सहित) # Shri # Tulsi # Stotram      (With Hindi meaning) जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो...