Tuesday, 22 August 2023

#श्रावण #मास में करें #गौरीशंकर#स्तोत्र #पाठ

!! #उमामहेश्वर_#स्तोत्रम् !!

#नमः शिवाभ्याम्
नवयौवनाभ्यां परस्पराश्लिष्ट वपुर्धराभ्याम ।
नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्याम्
सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम ॥

नम: शिवाभ्याम् 
वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम 
विभूतिपाटिरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्याम्
जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम ।
जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्याम्
परमौषधाभ्याम पञ्चाशरी पञ्जररञ्चिताभ्याम 
प्रपञ्च सृष्टिस्थिति संहृताभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्याम्
ऽतिसुन्दराभ्याम अत्यन्तमासक्तहृदम्बुजाभ्याम ।
अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्यां 
कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम 
कैलाशशैलस्थितदेवताभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्याम्
शुभापहाभ्याम अशेषलोकैकविशेषिताभ्याम ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्यां 
रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम ।
राका शशाङ्काभ मुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्यां॥
 
नमः शिवाभ्यां 
जटिलन्धराभ्यां जरामृतिभ्याम चविवर्जिताभ्याम 
जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमःशिवाभ्यां विषमेशणाभ्यांबिल्वच्च्हदामल्लिकदामभृद्भ्याम 
शोभावती शान्तवतीश्वराभ्यां नमो नमः शङ्करपार्वतीभ्यां ॥

नमः शिवाभ्यां 
पशुपालकाभ्याम जगत्त्रयीरशण बद्दहृद्भ्याम ।
समस्त देवासुरपूजिताभ्याम नमो नमः शङ्करपार्वतीभ्यां ॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्व्सौभाग्य फलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति ॥

  ॥इति श्रीमत्छङकराचार्य कृत् उमामहेश्वर स्तोत्रम्॥

No comments:

Post a Comment

#तुलसी #स्तोत्रम् #पुंडरीक कृत

तुलसी स्तोत्रम्‌      (हिंदी अर्थ सहित) # Shri # Tulsi # Stotram      (With Hindi meaning) जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो...